SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ( २२२) इस्वं इसयति, अजहसत् । क्षिप्रं क्षेपयति, अचिक्षेपत् । क्षुद्रं सोदयति, अचुक्षोदत् । पटुं पटयति ‘नामिनोऽकलिहलेः' इति कलिहलिवर्जनात् पूर्व वृद्धौ पश्चाद् औकारलोपेनासमानलोपित्वात् अपीपटत् । उढिमाचष्टे उठयति, औनिढत् । शूनीमाचष्टे पुंवद्भावाद् । नैकस्वराणाम् ' इति अन्त्यस्वरादिलोपनिषेधाच्च श्वानयति कलिहलिवर्ननाद् नाम्नोऽपि णौ परे वृद्धिः ज्ञापितेति वृद्धिः विद्वांसं विद्वयति, अविविद्वत् । उदञ्चमाचष्टे — उदच् उदीच् ' इत्यत्र णेवर्जनात् उदयति । प्रत्यञ्चं प्रत्ययति । श्रियं श्राययति । गां गवयति । रायं राययति । नावं नावयति, अनूनवत् । स्वः स्वयति अव्ययानामन्त्यस्वरादेर्लोपः । स्रग्विणं स्रनयति, श्रीमन्तं श्राययति, धीमन्तं धाययति णौ मत्वर्थीययोः विन्मतोलृक् । पयस्विनी पययति । त्वामाचष्टे त्वदयति । युवां युष्मान् वाऽऽचष्टे युष्मयति । सध्यञ्चं सध्ययति, अससध्यत् । देवद्यञ्चं देवद्ययति, अदिदेवद्यत् । अदाचं अद्ययति, अदद्यत् । अमुमुयश्चमाचष्टे अमुमुययति, आमुमुययत् । सध्यंचादौ निमित्तापाये नैमित्तिकस्याप्यभावः । न चिन्त्यते, अन्यथा सहयति वा सधाययति; देवदाययति, अमुमुआययति इत्यादयो भवेयुः । इति नामधातुप्रक्रिया समाप्ता ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy