________________
सत्यार्थवेदस्याः । ३ । ४ । ४४ । .. . एषां णिसंनियोगे आकारो भवति । सत्यमाचष्टे करोति वा सत्यापयति । अर्थापयति । वेदापयति । श्वेताश्वाश्वतरगालोडिताह्वरकस्याश्वतरेतकलुक्।३।४।४५। ___एषां णिच्संनियोगे यथासङ्ख्यमश्वादिशब्दस्य लुग् भवति । श्वेताश्वमाचष्टे करोति वा श्वेतयति । एवम् अश्वयति । गालोडयति । आहुरयति । 'प्रिंयादिशब्दानां णौ प्रादय आदेशा वक्तव्याः ' प्रियमांचष्टे प्रापयति, अपिप्रपत् । स्थिरमाचष्टे स्थापयति, अतिष्ठपत् । स्फिरमाचष्टे स्फापयति, अपिस्फपत् नैकस्वराणामिति निषेधाद् न समानलोपित्वम् । उरुं वरयति । गुरुं गरयति, अजगरत् । बहुलं बंहयति, अबबहत् । तृपं त्रपयति, अतत्रपत् । दीर्घमाचष्टे द्राघयति, अदद्रघत् । वृद्धं वर्षयति, अववर्षत् । वृन्दारकं वृन्दयति, अंववृन्दत् । बाढमाचष्टे साधयति, अससाधत् । अन्तिक नेदयति, अनिनेदत् । वृद्धं ज्ययति, अजिज्यत् । प्रशस्यं श्रयति अशिश्रत्-एकस्वरत्वान्न लुगिति न समानलोपित्वम् । एवम् अल्प कनयति, अल्पयति । युवानमांचष्टे कनयति, अचीकनत् वा यवयति, अययवत् । पृथु प्रथयति, अपप्रथत् । मृदुं म्रदयति, अमम्रदत् ।भृशं भ्रशयति, अबभ्रशत् । कृशं क्रशयति, अचक्रशत् । दृढं द्रढयति, अदगुढत् । परिवृढं परिवढयति, अपपरिबढत् । बहुं भूययति, अबूभुयत् । स्थूलं स्थवयति, अतस्थवत् । दूरं दवयति, अददवत् ।