SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ (२९०) एष्वर्थेषु यथासङ्ख्यमेते क्यन्नन्ता निपात्यन्ते । असनायति। उदन्यति । धनायति । क्षुधादाविति किम् । अशनीयति, उदकीयति, धनीयति दानाय। . वृषाश्चाद् मैथुने स्सोऽन्तः । ४ । ३ । ११४ । मैथुनार्थाभ्यामाभ्यां क्यनि स्सोऽन्तो भवति । वृषस्यति । अश्वस्यति । ___ अस् च लौल्ये । ४ । ३ । ११५ । लौल्ये गम्ये क्यनि परे नाम्नोऽस सश्चान्तो भवति । लवणस्यति उष्ट्रः । णिज् बहुलं नाम्नः कृगादिषु । ३ । ४ । ४२। कृगादीनां धातूनामर्थे नाम्नो णिज् बहुलं भवति । मुण्ड करोति मुण्डयति । पटुमाचष्टे पटयति । कृतं गृह्णाति कृतयति । वस्त्रं समाच्छादयति संवस्त्रयति । लवणं करोति लवणयति व्यञ्जनम् । मिश्रं करोति मिश्रयति धान्यम् । व्रताद् भुजितन्निवृत्त्योश्च । ३ । ४।४३ । शास्त्रविहितो नियमो व्रतम् । व्रतशब्दाद् मुज्यर्थे तन्निवृत्त्यर्थे व वर्तमानात् कृगादीनामर्थे णिज् बहुलं भवति । पयसा व्रतं करोति पयो व्रतयति पय एवाद्य मया भोक्तव्यं नान्यदिति व्रतं करोतीत्यर्थः । सावद्यान्नस्य व्रतं करोति सावद्यान्नं व्रतयति सावद्यान्नं मया न मोक्तव्यमित्यर्थः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy