SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ (२१९) अङ्गाद् निरसने णिङ् । ३ । ४।३८ । अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा भवति । हस्तं निरस्यति हस्तयते । पुच्छादुत्परिव्यसने । ३ । ४ । ३९ । पुच्छात् कर्मण उदसने पर्यसने व्यसने असने चार्थे णिक वा भवति । पुच्छमुदस्यति पर्यस्यति व्यस्यति उत्पुच्छ्यते । परिपुच्छयते । विपुच्छयते । पुच्छयते । भाण्डात् समाचितौ । ३.। ४ । ४० । भाण्डात् कर्मणः समाचितावर्थे णिङ् वा भवति । भाण्डं समाचिनोति सम्भाण्डयते । एवं परिभाण्डयते । 'परिधानार्जने चीवरादपि वक्तव्यः ' चीवरं परिधत्ते परिचीवरयते । संचीवरयते। तपसः क्यन् । ३।४।३६। अस्मात् कर्मणः कृतावर्थे क्यन् भवति । तपः करोति तपस्यति । - नमोवरिवश्चित्रकोऽर्चासेवाऽऽश्चर्ये । ३ । ४ । ३७। एभ्यः कर्मभ्यो यथासङ्ख्यमर्चादिषु क्यन् वा भवति । नमः अर्चा करोति नमस्यति । वरिवस्यति विजयधर्मसूरि सिंहः। चित्रं करोति चित्रीयते । ...... क्षुत्तुड्गर्धेऽशनायोदन्यधनायम् । ४।३।११३ । ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy