________________
(२१८)
कर्तुरित्येव अपटपटा पटपटा करोतीत्यत्र न भवति । व्यर्थ इत्येव । लोहितो भवति । कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे । ३ । ४।३१।
एभ्यः पापवृत्तिभ्यः चतुर्थ्यन्तेभ्यः क्रमणेऽर्थे क्यङ्वा भवति । कष्टाय क्रंमते कष्टायते । एवं कक्षायते, कृच्छ्रायते, सत्रायते, गहनायते पापायोत्सहत इत्यर्थः ।
रोमन्थाद् व्याप्यादुचवणे । ३ । ४ । ३२ ।
अभ्यवहृतं द्रव्यं रोमन्थः, उद्गीर्य चर्बणमुच्चर्बणम् । अस्मिबर्थे रोमन्थात् कर्मणः क्यङ् वा भवति। रोमन्थमुच्चर्बयति रोमन्थायते । उच्चत्रण इति किम् , कीटो रोमन्थं वर्तयति ।
फेनोष्मबाष्पधूमादुमने । ३ । ४ । ३३ । __एभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् वा भवति । फेनमुद्रमति फ्रेनायते । उष्मायते । बाष्पायते । धूमायते ।
सुखादेरनुभवे । ३ । ४ । ३४ । सुखादिभ्यः कर्मवाचिभ्योऽनुभवेऽर्थे क्यङ् वा भवति । सुखमनुभवति सुखायते । दुःखायते ।
___ शब्दादेः कृतौ वा । ३ । ४ । ३५ ।
एभ्यः कर्मभ्यः कृताव] क्यङ् वा भवति । शब्दं करोति शब्दायते । वैरायते । पक्षे णिच शब्दयति । वैरयति । ।