SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ( २१७ भकवयत् । कवयाञ्चकार । कवीयात् । कवयिता । अकवयिष्यत् । भकवयीत् । गल्भते । क्लीबते । होडते । पय इवाचरति . . सो वा लुक् च ।३।४।२७। सकारान्तात् कर्तुरुपमानवाचिनो नाम्न आचारार्थे क्यङ् वा भवति, तद्योगे सो वा लुक् च । पयस्यते, पयायते । रास्यते, यशायते । चन्द्रमस्यते, चन्द्रमायते। __ क्यङ् । ३।४।२६ । कर्तुरुपमानवाचिन आचारार्थे क्यङ् वा भवति । हंस इवाचरति हंसायते । . ओजोऽप्सरसः ।३।४।२८ । . . आभ्यां कर्तुरुपमानाभ्यामाचारार्थे क्यङ् भवति वा, सश्च लुक च । ओजस्वीवाचरति ओजायते । अप्सरायते । व्यर्थे भृशादेः स्तोः । ३ । ४ । २९ । कर्तुरुपमानाद् भृशादेर्नाम्नः च्च्यर्थे क्यङ् वा भवति । यथासम्भवं स्तोः लुक् च । अभूततद्भावश्च्व्यर्थः । अभृशो भृशो भवति भृशायते । उन्मनायते । अवेहत् वेहद् भवति वेहायते । कर्तुरित्येव अभृशं भृशं करोति । च्यर्थ इति किम् भृशो भवति । डा-लोहितादिभ्यः पित् । ३ । ४ । ३० । डाजन्तेभ्यो लोहितादिभ्यश्च कर्तुः च्यर्थे षित् क्यङ् भवति । पटपटायते, पटपटायति । लोहितायते, लोहितायति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy