SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ( २१६ ) आधाराच्चोपमानादाचारे । ३ । ४ । २४ । मान्ताव्ययवर्जितादुपमानवाचिनो द्वितीयान्तादाधाराच्च नाम्न आचारार्थे क्यन् वा भवति । पुत्रमिवाचरति पुत्रीयति च्छात्रमुपाध्यायः । प्रासादे इवाचरति प्रासादयति कुट्यां भिक्षुः । कर्तुः क्विव् गल्भक्लीषहोडात तुङि । ३ । ४ । २५ । कर्तुरुपमानवाचिनो नाम्न आचारार्थे विबू वा भवति, स च गल्भक्लीबहोडात् ङिद् भवति, तेनात्मनेपदम् । जिन इवाचरति जिनति । बुधति । अ इवाचरति अति अतः अन्ति । असि अथः अथ । आमि आवः आमः । एत् एताम् एयुः । एः एतम् एत । एयम् एव एम। अतु अतात् अताम् अन्तु । अ, अतात् अतम् अत । आनि आव आम । आत् आताम् आन् । आः आतम् आत । आम् आव आम । आ आतुः ओः। इथ | आथुः आ। आ एव एम । यात् यास्ताम् यासुः 'अतः ' इत्यकारलोपः । इता इतारौ इतारः । इष्यति इष्यतः इष्यन्ति । इष्यत् इष्यताम् इष्यन् । इत् इष्टाम् इषुः । ' सर्वेभ्यो लोपः ' इति न्यायाद्, अन्यथा वृद्धौ ऐष्यत् ऐष्यताम् ऐष्यन् । ऐत् ऐष्टाम् ऐषुः । मालेवाचरति मालाति । मालायात् । मालातु । मालाहि । अमालात् । मालाञ्चकार । मालिता । मालिष्यति । अमालासीत् । कविरिवाचरति कवयति । कवयेत् । कवयतु ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy