SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ( २१५) - क्यनि । ४ । ३ । ११२। । - क्यनि परे अवर्णस्य ईकारो भवति । पुत्रीयति । पुत्रीयेत् । पुत्रीयतु । अपुत्रीयत् । पुत्रीयाञ्चकार । पुत्रीयिता। पुत्रीयिष्यति। अपुत्रीयिष्यत् । अपुत्रीयीत् । खट्वामिच्छति खट्वीयति । मालीयति । निधीयति 'दीर्घत्रिच्च-' इति दीर्घः । पटूयति । दात्रीयति 'ऋतो रीः ' इति रीः । पित्रीयति । मात्रीयति । स्वस्रीयति । रायमिच्छति रैयति । गामिच्छति गव्यति, नावमिच्छति नाव्यति 'य्यक्ये ' इत्यवावौ । गार्ग्यमिच्छति गार्गीयति । आपत्यस्य क्यच्च्योः ' इति यस्य लुक् । राजीयति। अहः इच्छति अहर्यति। यमिच्छति यद्यति । तद्यति । एतद्यति । अदस्यति । सर्पिष्यति । क्षुधातः सन्नशनमिच्छति अशनायति, तृषार्तः सन्नुदकमिच्छति उदन्यति, गृद्धः सन् धनमिच्छति धनायति एते त्रयः ‘क्षुत्तड्गधेऽशनायोदन्यधनायम् ' इति निपात्यन्ते । अन्यत्र अशनीयति, उदकीयति, धनीयति । वृषमिच्छति वृषस्यति, अश्वमिच्छति अश्वस्यति 'वृषाश्वाद् मैथुने स्सोऽन्तः' इति स्सोऽन्तः। वृषस्याश्वस्यशब्दों मैथुनेच्छापर्यायौ मनुष्यादावपि प्रयुज्यते । लक्ष्मणं सा वृषस्यन्ती, सा तम् अश्वस्यति । मैथुनादन्यत्र वृषीयति, अश्वीयति । तृष्णायां 'अस् च लौल्ये' इति अस् सश्चान्तो भवति । लोलुपः सन् दधि इच्छति दध्यस्यति, दधिस्यति । एवं मध्वस्यति, मधुस्यति । मान्ताव्ययनिषेधात् इदमिच्छति, किमिच्छति, स्वस्तीच्छतीत्यादौ वाक्यमेव ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy