________________
( २१२ )
ष्यति, जरीगर्विष्यति । अजरिगर्धिष्यत्, अजरीगर्धिष्यत् । अजरिगर्धीत्, अजरीगर्धीत्, अजर्गर्धीत् । प्रच्छ् ज्ञीप्सायाम् । अत्रापि ग्रहधातोरिव
लुप्यनृल्लेत् । ७ । ४ । ११२ ।
इत्यत्र वृद्वर्जनाद् यङ्लुपि य्वृद् भवति । परिपृच्छीति, परीपृच्छीति, पपृच्छति । वृति द्वित्वे ' अनुनासिके ' इति च्छः शत्वे ' यजसृजमृज-' इति शः षत्वे गुणे च परिपर्टि, परीपष्टि, पर्पष्टि । परिपृष्टः, परीपृष्टः, पपृष्टः । परिपृच्छति, परीपृच्छति, पपृच्छति । परिपृच्छ्यात् । परिपृच्छीतु, परिपर्छु । हौ परिपृढि । अपरिपृच्छीत्, अपरिपर्ड् । परिपृच्छाञ्चकार । परिष्टच्छता । परि पृच्छिष्यति । अपरिपृच्छिष्यत् । अपरिपृच्छीत् । हय् मतौ । जाहयीति, जाहति जाहतः जाहयति । जाहय्यात् । जाहयीतु, जाहतु । जाहहि । अजाहयीत्, अजाहयत् । जाह्याञ्चकार । अजाहयीत् । हर्य गतिकान्त्योः । जाहर्यीति, जाहर्ति जाहर्त: जाहर्यति । अजाहर्यीत् ।
1
मव्यविश्रिविज्वरित्वरेरुपान्त्येन । ४ । १ । १०९ ।
एषां धातूनामनुनासिकादौ बुडादौ च प्रत्यये परे वकारस्योपान्त्येन सहोट् भवति । ज्वर्- जाज्वरीति, जाजूर्ति जाजूर्तः जाज्व रति । जाजूर्यात् । जाज्वरीतु, जाजूर्त। अजाज्वरीत्, अजाजूः । जाज्वराञ्चकार । जाज्वरिता । जाज्वरिष्यति । अजाज्वरीत् । त्वर्-तात्वरीति, तातूर्ति । अतात्वारीत्, अतात्वरीत् । मव्-मामवीति,
1