________________
(२०२) व्येस्यमोर्यङि । ४ । १ । ८५ । व्येगस्यमोः सस्वरान्तस्था यङि स्वृद् भवति । वेवीयते । वेवीयाञ्चक्रे । अवेवीयिष्ट । सेसिम्यते । असेसिमिष्ट ।
द्वित्वे वः । ४ । १ । ८७। हेग्धातोः द्वित्वविषये य्वृद् भवति । जोहूयते । जोहूयाचक्रे । अजोहूयिष्ट ।
प्यायः पीः। ४ । १ । ९१ । - प्यायधातोः परोक्षायङि पीभवति । पेपीयते । पेपीयाञ्चके । अपेपीयिष्ट। 'चायः कीर्वक्तव्यः' चेकीयते । अचेकीयिष्ट। शीवातोस्तु शयादेशे शाशय्यते । शाशयाञ्चक्रे । अशाशयिष्ट । सिच्धातोर्यडि पत्वं न भवति । सेसिच्यते । सेसिचाञ्चक्रे । असेसिचिष्ट ।
इति यङन्तप्रक्रिया समाप्ता।