SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ( २०३ ) अथ यङ्लुबन्तप्रक्रिया । बहुलं लुप् । ३ । ४ । १४ । यङो लुब् बहुलं भवति । लुपि सत्यां तन्निमित्तकं कार्यमपि न भवति, तेन यङ्लुबन्तात् परस्मैपदं भवति । यङ्लुबन्तानां धातूनामदाद्यन्तर्गणादौ पाठाद विकरणप्रत्ययाभावः । यङ्तुरुस्तोर्बहुलम् । ४ । २ । ६४ । I 1 यङ्लुबन्तात् तुरुस्तुभ्यश्च पर ईर्भवति व्यञ्जनादौ विति परे, स च परादिः । बाहुलकात् क्वचिद् विकल्पः क्वचिदविकल्पः ॥ बोभवीति, बोभोति बोभूतः बोभुवति । बोभवीषि, बोभोषि बोभूथः बोभूथ । बोभवीमि, बोभोमि बोभूवः बोभूमः । बोभूयात् बोभूयाताम् बोभूयुः । बोभूयाः के भूयातम् बोभूगात । बोभूयाम् बोभूया बोभूयाम । बोभवीत, बोभोतु, बोभूतात बोभूताम् बोमुवतु । बोभूहि, बोभूतात् बोभूतम् बोभूत । बोभवानि बोभवाव बोभवाम ॥ अबोभवीत्, अबोभोत् अवोभूताम् अबोभवुः । अबोभवीः, अबोभोः अबोभूतम् अत्रोभत । अबोभवम् अबोभूव अबोभूम | बोभवाञ्चकार । बोभवाम्बभूव । बोभवामास । बोभूयात् । बोमविता । बोभविष्यति । अबोभविष्यत् । अबोभूवीत्, अबोमोत् । पापचीति, पापक्ति । पापचीषि, पापक्षि । पापच्यात् । पापचीत "
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy