SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ( २०१ ) वशधातोः यङि परे वृद् न भवति । वावश्यते । वावश्यताम् । अवावशिष्ट । वा परोक्षायङि । ४ । १ । ९० । विधातोः परोक्षायां यङि च वा य्वृद् भवति । शोशूयते । शोशूयाञ्चक्रे । अशोशूयिष्ट । पक्षे शेश्वीयते । अशेश्वीयिष्ट । स्मृसास्मर्यते । असास्मरिष्ट । ऋतो रीः । ४ । ३ । १०९ । ऋदन्तानां व्यादौ परे ऋतः स्थाने रीर्भवति । चेक्रयते । जेहीयते । वेत्रीयते । ईव्र्व्यञ्जनेऽयपि । ४ । ३ । ९७ । गापास्थासादामाहाकां धातूनां यप्वर्जे व्यञ्जनादौ क्ङित्यशितिं परे ईर्भवति । जेगीयते । पेपीयते । तेष्ठीयते । सेषीयते । देदीयते । देवीयते । मेमीयते । जेहीयते । 1 1 1 घ्राध्मोर्यङि । ४ । ३ । ९८ । अनयोर्यङि परे ईर्भवति । जेधीयते । देध्मीयते । यङ्लुपि नईर्भवति । हनो नीर्वधे । ४ । ३ । ९९ । 1 हिंसार्थस्य हन्धातोर्यङि घ्नीर्भवति । जेघ्नीयते । जेघ्नीयाञ्चक्रे । अजेघ्नीयिष्ट । स्वप्धातोर्यङि वृति सोसुप्यते ॥ असोसु पिष्ट ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy