________________
( १९६ )
तिः संशयप्रतीकारे । ३ । ४ । ६ ।
संशयप्रतीकारार्थात् कितः स्वार्थे सन् भवति । विचिकित्सति मे मनः । व्याधिं चिकित्सति । अन्यत्र केतयति ।
अव्याप्यस्य मुचेर्मोग् वा । ४ । १ । १९ । अकर्मकस्य मुचेः सादौ सनि मोग् वा भवति, न च द्विः । मोक्षति - ते । मुमुक्षति - ते । व्याप्ये सति तु मुमुक्षति वत्सम् । मिमीमादामित् स्वरस्य । ४ । १ । २० ।
1
एषां दासज्ञानां च स्वरस्य सादौ सनि परे इत् भवति, न च द्विः । मित्सति । मित्सते । मित्सते । दित्सति, दित्सते । धित्सति, सिते ।
राधेर्वधे । ४ । १ । २२ ॥
हिंसार्थस्य राधातोः स्वरस्य इर्भवति सादौ सनि । प्रतिरित्सति । वध इति किम् । आरिरात्सति गुरुम् ।
इति सन्नन्तप्रक्रिया समाप्ता ।