________________
( १९७) अथ यङन्तप्रक्रिया।
न्यानादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा । ३ । ४ ॥९॥
गौणक्रियाणामधिश्रयणादीनां क्रियान्तरात्र्यवधानेन सम्पत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम् ; तद्विशिष्टार्थे वर्तमानाद् धातोर्यक प्रत्ययो भवति । भृशं पुनः पुनर्वा पचति इति पच्+य 'सन्यड इति द्वित्वेऽनादेर्व्यञ्जनस्य लुकि प+पच्+य इति जाते
आगुणावन्यादेः । ४ । १ । ४८ । यङन्तस्य धातोद्वित्वे सति न्याद्यागमवर्जितस्य पूर्वस्य आकारगुणौ भवतः । पापच्यधातुत्वात् त्यादौ शवि अतो लोपे पापच्यते । पापच्येत । पापच्यताम् । अपापच्यत।
. योऽशिति । ४ । ३।८। । व्यञ्जनान्ताद् धातोः परस्य यकारस्य अशिति प्रत्यये लुग भवति । पापचाञ्चक्रे । पापचिषीष्ट । पापचिता । पापचिष्यते । अपापचिष्यत । अपापचिष्ट । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयेत । बोभूयताम् । अबोभूयत । बोभूयाञ्चक्रे । बोभूयाम्बभूव, बोभूयामाप्त । बोभूयिषीष्ट । बोभूयितासे । बोभूयिष्यते । अबोभूयिष्यत । अबोभूयिष्ट ।