SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ (१९५) ज्ञीप्साञ्चकार । जीप्सिता । जीप्सिष्यति । अज्ञीप्सिष्यत् । अज्ञीप्सीत् । पक्षे जिज्ञपयिषति-ते। अजिज्ञपयिषीत् । आप्-ईप्सति । सनि । ४ । २ । ६१ । खन्सन्जनां धातूनां धुडादौ सनि आत्त्वं भवति । सिषासति-ते, सिसनिषति-ते। चिखासति, चिखनिषति । निजासति, जिजनिषति । तितंसति, तितनिषति । . रभलभशकपतपदामिः । ४ । १ । २१ । एषां स्वरस्य सादौ सनि परे इकारो भवति, न च द्विः । रिप्सते, आरिप्सते । आरिप्सेत । आरिप्सिष्ट । लिप्सते । अलिप्सिष्ट। शिक्षति । अशिक्षीत्। पित्सति, पिपतिषति। अपित्सीत्। पित्सते । अपित्सिष्ट । वुवूपति, विवरिषति, विवरीषति । तितीपति, तितरिषति, तितरीपति । दिदरिद्रासति, दिदरिद्विषति । शान्दान्मान्बधाद् निशानार्जवविचारवैरूप्ये दीर्घश्चेतः । ३।४।७। निशानाद्यर्थेभ्य एभ्यो यथासङ्ख्यं स्वार्थे सन् भवति, द्वित्वे पूर्वस्येतो दीर्वश्च । शीशांसति-ते। दीदांसति-ते । मीमांसते । बीभत्सते । अर्थान्तरे न भवति । गुप्तिजो गर्हाक्षान्तौ सन् । ३ । ४ । ५। गुपेर्गर्हायां तिजः क्षान्तौ स्वार्थे सन् भवति । 'स्वार्थे ' इति नेट जुगुप्सते । तितिक्षते । अन्यत्र प्रायेण त्यादयो न भवन्ति तेन सन्व्यवधानेऽप्यात्मनेपदम् । अर्थान्तरे णौ गोपयति। तेजनम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy