________________
( १९० )
रज्ञधातोरुपान्त्यस्य नो णौ परे लुगू भवति, मृगाणां
क्रीडायाम् । रजयति मृगं व्याधः । अरीरजत् ।
वा ष्टष्टः । ४ । १ । ६६ । अनयोर्धात्वोरसमानलोपे ङपरे णौ द्वित्वे सति पूर्वस्याद् वा भवति । अववेष्टत्, अविवेष्टत् । अचचेष्टत्, अचिचेष्टत् । स्वपधातोः स्वापयति । अद्यतन्याम्--- स्वपेर्यङ्के च । ४ । १ । ८० ।
स्वप्वातोर्यङि ङे किति च सस्वरान्तस्था वृद् भवति । असूपत् । सोषुप्यते । सुप्यते । विश्वाययति ।
1
श्वेर्वा । ४ । १ । ८९ ।
विधातोः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृढ़ वा भवति । अशूशवत्, अशिश्वयत् । इंक् स्मरणे । इण्क् गतौणावज्ञाने गमुः । ४ । ४ । २४ ।
अज्ञानार्थे वर्तमानयोः इणिकोः णौ गम्वादेशो भवति । अधिगमयति प्रियम् । अध्यजीगमत् । गमयति । अजीगमत् । ज्ञाने तु प्रत्याययति शब्दोऽर्थम् ।
1
इति णिगन्तप्रक्रिया |