SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ( १९१ ) अथ सन्नन्तप्रक्रिया | तुमहदिच्छायां सन्नतत्सनः । ३ । ४ । २१ । यो धातुरिषेर्धातोः कर्म तथेषिधातुना सह समानकर्तृकः सतुमाहः, तस्माद् धातोः इच्छार्थे सन् प्रत्ययो भवति । इच्छासन्नन्तात् पुनरिच्छायां सन् न भवति । भवितुमिच्छति भू+स इति स्थिते । सन्यङश्च । ४ । १ । ३ । सन्प्रत्ययान्तस्य यङ्प्रत्ययान्तस्य च धातोराद्य एकस्वरोंऽशो द्विर्भवति । भू+भू+स् पूर्वस्य भस्य बत्वे सः पत्वे तिवि शि च बुभूषति । बुभूषेत् । बुभूषतु । अबुभूषत् । बुभूषाञ्चकार । बुभूषाम्बभूव । बुभूषामास । बुभूष्यात । बुभूषिता । बुभूषिष्यति । अनुभूषिष्यत् । अबुभूषीत् अबुभषिष्टाम् अनुभूषिषुः । कर्तुमिच्छति— ऋवर्णयुगः कितः । ४ । ४ । ५७ । ऋवर्णान्ताद् श्रेरुर्णाश्च धातोरेकस्वराद् विहितस्य कित आदिरिड् न भवति । स्वरहन्गमोः सनि घुटि । ४ । १ । १०४ ॥ स्वरान्तस्य हनो गमोश्च धुडादौ सनि परे दीर्घो भवति । पूर्वेण इनिषेधे ' ऋतां विङतीर् ' इतीरादेशे द्वित्वे चत्वे षत्वे
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy