________________
( १८८) घटादीनां णौ हस्वो भवति, जिणम्परे तु वा दीर्घः । घटयति । अनीघटत् । जिपरे अघाटि, अघटि । घाटं घाटम् , बटं घटम् । व्यथयति । अविव्यथत् । अव्याथि, अव्यथि ।
कगेवनूजनैऋपनस्राः । ४ । २ । २९ । एषां णौ ह्रस्वः, अिणम्परे तु वा दीर्घा भवति । कगयति । अचीकगत् । अकागि, अकगि । कागं कागम् , कगं काम् । वनयति । अवीवनत् । अवानि, अवनि । जनयति । अजीजनत् । अजानि, अननि । जानं जानम् , जनं जनम् ।
अमोऽकम्यमिचमः । ४ । २ । २६ । अमन्तस्य धातोः णौ परे हम्वो भवति, जिणम्परे तु वा दीर्घः, न तु कम्यमिचमीनाम् । रमयति । अरीरमत् । अरामि, अरमि । कम्यमिचमीनां वर्जनात् कामयते । आमयति । चामयति, आचामयति । अचामि । चामं चामम् ।
पर्यपात् स्खदः । ४ । २ । २७ । __ आभ्यामेव परस्य स्खदेः णौ ह्रस्वो भवति, भिणम्परे तु वा दीर्घः । परिस्खदयति । पर्यस्खादि, पर्यस्खदि । अपस्खदयति । एवमदर्शनार्थे शमः । शमयति । अशामि, अशमि । अशीशमत् । अपरिवेषणार्थस्य यमोऽपि । यमयति । अयीयमत् । अयामि, अयमि । मारणतोषणनिशानेष्वर्थेषु ज्ञाधातोरपि । ज्ञपयति । अजिज्ञपत् । ज्ञापं ज्ञापम् , ज्ञपं ज्ञपम् । अज्ञापि, अज्ञपि ।