SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ (१८७) रुहो णौ पो वा भवति । रोपयति, रोहयति । अरूरुपत् ,. अरूरुहत् । पातेः । ४।२।१७। पाधाताणौँ लोऽन्तो भवति । पालयति । अपीपलत् । घो विधूनने जः । ४ । २ । १९ । विधूननार्थे वर्तमानस्य वाधातोः णौ जोऽन्तो भवति । पक्षेणोपवाजयति । उपावीवजत् । पाशाच्छासावेव्याह्वो यः।४।२।२०। एषां णौ परे योऽन्तो भवति । पाययति । के पिवः पीप्य् । ४।१।३३।। ण्यन्तस्य पाधातोः डे परे पीप्यादेशो भवति, न च द्विः । अपीप्यत् । शाययति । अशीशयत् । छाययति । अच्छिच्छयत् । साययति । असीषयत् । वाययति । अवीवयत्। व्याययति । अविव्ययत् । ह्वाययति । __णौ ङसनि । ४ । १ । ८८ । हवेगधातोः ङपरे सन्परे च णौ सस्वरान्तस्प.या य्वृद् भवति। 'भ्राजभास-' इत्यादिना वा हस्वे अजुहावत् , अजूहवत् । - स्फाय स्फा । ४ । २ । २२ । णौ स्फायः स्फावादेशो भवति । स्फावयति । अपिस्फवत् । घटादेहस्वो दीर्घस्तु वा भिणम्परे । ४।२।२४ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy