SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ( १८६ ) ऊद् दुषो णौ । ४ । २ । ४० । दुधातोरुपान्त्यस्य णौ परे उद् भवति । दूषयति । दूषयते । अदू दुषत् । ङे न ह्रस्व इत्यन्ये अदुदूपत् । दूप्यात् । चित्ते वा । ४ । २ । ४१ । चित्तकर्तृकस्य दुष्धातोरुपान्त्यस्य णौ वा उद् भवति । चित्तं दूषयति, दोषयति वा । णौ क्रीजीङः । ४ । २ । १० । 1 एषां धातूनां णौ परे आद् भवति । क्रापयति । अचिक्रपत् । जापयति । अजीजपत् । अध्यापयति । अध्यापयते । अध्यापयताम् । अध्यापिपत् । सिध्यतेरज्ञाने । ४ । २ । ११ । अज्ञानार्थे वर्तमानस्य सिध्यतेः णौ आढ़ भवति । मन्त्रं साधयति । असीषधत् । अज्ञानादन्यत्र तपः तापसं सेवयति । चिस्फुरोर्नवा | ४ | २ | १२ | अनयोणी आत् वा भवति । चापयति, चाययति । अत्रीचपत्, अचीचयत् । स्फारयति, स्फोरयति । अपिस्फरतू, अपुस्फुरत् । वियः प्रजने । ४ । २ । १३ । गर्भाधानार्थे वर्तमानस्य वियो णौ आत्त्वं वा भवति । पुरो वातो गाः प्रवापयति, प्रवाययति । प्रावीवपत्, प्रावीवयत् । रुहः पः । ४ । २ । १४ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy