SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ( १८५) एषां धातूनां सनि परे द्वित्वे सति पूर्वस्योकारस्य इत्वं वा भवति, अवर्णान्तेऽन्तःस्थायां परे। 'असमानलोपेसन्वल्लयुनिङे ' इति अशुश्रवत् , अशिभंवत् । अशुश्रवत, अशिश्रवत । स्रावयति। खावयते । स्रावयेत् । असुत्रवत् , असुत्रवत । असिस्रवत्, असिस्रवत । अदिद्रवत्, अदिद्रवत । अदुद्रवत् , अदुद्रवत । अपिप्रवत् , अपुप्रवत् । अपिप्लवत् , अपुप्लवत् । च्यावयति । भचिच्यवत् , अचुच्यवत् । जिति घात् । ४ । ३ । १०० । जिति णिति च प्रत्यये परे हन्तेर्वातादेशो भवति । घ्नन्तं. प्रयुङ्क्ते वातयति, घातयते । घात्यात् । घातयिषीष्ट । अनी-. घतत्, अनीघतत । शदेरगतौ शात् । ४।२।२३। अगत्यर्थे वर्तमानस्य शदिधातोः शातादेशो भवति, गौ परे । शातयति । अशीशतत् । शात्यात् । ष्ठां गतौ । स्थापयति । स्थापयते । स्थापयेत् । अस्थापयत् । तिष्ठतेः । ४।२। ३९ । स्थाधातोरुपान्त्यस्य ङपरे णौ इभवति । अतिष्ठिपत् । स्थाप्यात् । घ्रा प्रापयति । ब्रापयेत् । ब्रापयेत । जिघ्रतेरिः। ४ । २।३८ । . घ्राधातोरुपान्त्यस्य ङपरे णौ इर्वा भवति । अनिधिपत्,. अजिघ्रपत् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy