________________
( १८२) लीधातोः स्नेहवे गम्यमाने णौ परे नोऽन्तो वा भवति । घृतं विलीनयति । पक्षे वृद्धौ विलाययति । लीलिनोर्वा ' इत्यनेनात्त्वं केचिदिच्छन्ति तन्मते आत्त्वे कृते
___ लो लः । ४ । २।१६। लारूपस्य धातोः णौ परे स्नेहद्रवे गम्यमाने लोऽन्तो वा भवति । विलालयति पक्षे विलापयति इत्यादीनि भवन्ति । विलीनयेत् । विलाययेत् । विलीनयाञ्चकार । विलाययाञ्चकार । व्यलीलिनत् , व्यलीलयत् , व्यलीललत , व्यलीलपत् । प्रीगण तर्पणे । धूगण कम्पने । गित्त्वमुभयपदार्थम् ।
धूगपीगोनः । ४ । २ । १८ । ___अनयोणी परे नोऽन्तो भवति । धूनयति । धूनयते । प्रीणयति। प्रीणयते । धूनयाञ्चकार । प्रीणयाञ्चकार । अदूधुनत् । अपिप्रिणत् । वृगण आवरणं । वारयति । जूण् वयोहानौ । जारयति । चीक शीकण आमर्षणे । मार्गण अन्वेषणे ।मार्गयति। मार्गयाञ्चकार । पृचण सम्पर्चने । रिचण वियोजने च । रेचयति । वचण भाषणे । वाचयति । अर्चिण पूजायाम् । अर्चयति, पक्ष इदित्त्वादात्मनेपदे शवि अर्चते । वृनैण् वर्जने । मृजौण शौचालङ्कारयोः । ' मृगोऽस्य वृद्धौ ' इति मार्नयति । मार्जयेत् । अमार्जयत् । मायाञ्चकार । अमीमृजत् , अममात्। णिजभावे मार्जति । मानेंत् । अमाीत्, अमानीत् । कठुण शोके । कण्ठयति । उत्कण्ठयति । उदचकण्ठत् । कण्ठति । अकण्ठीत् । ऋथ अर्दिः