SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ (१८३) हिंसायाम् । वदिण भाषणे । वादयति । वदते । अवीवदत् । छदण अपवारणे । आङः सदण गतौ । आसादयति । पक्षे आसीदति । सदिता । असदीत् । मानण पूजायाम् । मानयति । मानति । अमीमनत् । तपिण् दाहे । तापयति, तपते । अतीतपत् । आप्लण् लम्भने । आपयति । प्रापयति । आपिपत् । पक्षे आपति । आपिता । आपत् । ईरण क्षेपे। ईरयति । ऐरिरत् । ईरति । ईराञ्चकार । ऐरीत् । मृषिण तितिक्षायाम् । मर्षयति । अमीमृषत् , अममर्षत् । पक्षे इदित्त्वादात्मनेपदे मर्षते । अमर्षिष्ट । शिषण असर्वोपयोगे। असर्वोपयोगोऽनुपयुक्तत्वम् । शेषयति । अशीशिषत् । विपूर्वस्तूत्कर्षे। विशेषयति । पक्षे शेषति । शेषिता । अशेषीत् । - षण प्रसहने । प्रसहनम भिभवः । धर्षयति । अदीषत् , अदधर्षत् । पक्षे धर्षति । अधर्षीत् । हिसुण हिंसायाम् । हिंसयति, हिंसति । अनिहिंमत् । गर्हण विनिन्दने । गर्हयति, गर्हति । अजगर्हत् । पहण मर्षणे । साहयति । 'असीषहत् । सहति । सहिता। असाहीत , असहीत् । एतन्निदर्शनं बहुलं द्रष्टव्यं तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भ्वादयश्च सौत्राः, चुलुम्पादयश्च वाक्यकरणीया धातव उदाहरणीयाः-दिवि ग्रहा विक्लवन्ते विच्छायीभवन्तीत्यर्थः । उपक्षपयति प्रावृड् आसन्नीभवतीत्यर्थः, उत्तभ्नातीत्यादयः । इति युनादिगणः समाप्तः, तत्समाप्तो समाप्तथुरादिगणोपि।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy