SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ( १८१) मृषण क्षान्तौ । रसण आस्वादस्नहनयोः । वासण उपसेवायाम् । निवासण आच्छादने । चहण कल्कने । महण पूजायाम् । रहण त्यागे । स्पृहण ईप्सायाम् । रूक्षण पारुष्ये । गुरूपान्त्यत्वेन गुणाभावे सिद्धेऽदन्तत्वमध्ये पाठः णिजभावेऽपि अदन्तत्वख्याफ नार्थस्तेनानेकस्वरत्वाद् यङ् न भवति । इति परस्मैपदं समाप्तम् । अथादन्तेष्वात्मनेपदम् । मृगणि अन्वेषणे । मृगयते । अममृगत । अर्थणि उपयाचने। पदणि गतौ । संग्रामणि युद्धे । संग्रामयते । शूर वीरणि विक्रान्तौ। सत्रणि संदानक्रियायाम् । स्थूलणि परिवहणे । गर्वणि माने । गृहणि ग्रहणे । कुहणि विस्मापने । कुहयते । अचुकुहत । इत्यात्मनेपदम् ; इत्यदन्ता धातवः समाप्ताः । अथ वृत् युजादिः । युजण संपर्चने युजादेर्नवा । ३ । ४ । १८ । एभ्यो धातुभ्यो णिज् वा भवति । योजयति । अयोजयत् । योजयाञ्चकार । योजयिता । अयूयुजत् । पक्षे योजति । योजेत् । योजतु । अयुजत् । युयुज । युयात् । योजिता । योजिष्यति । अयोनीत् । लीण् द्रवीकरणे... लियो नोऽन्तः स्नेहवे । ४।२।१५।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy