________________
(१८०)
दण्डण् दण्डनिपातने । गणण् सङ्ख्याने । गणयति । गणयेत् । गणयतु । अगणयत् । गणयाञ्चकार । गणयिता । गणयिष्यति । अद्यतन्यां ङे कृते
ई च गणः ।
। १ । ६७ ।
गणेः उपरे णौ द्वित्वे पूर्वस्य ईरश्च भवतः । अजीगणत् अजीगणताम् अजीगणन् । अजगणत् अजगणताम् अजगणन् । अदन्तत्वं सुखादीनां णिज्योगे एवातोऽनित्यत्वेन णिजोऽभावे जगाण जगणतुः जगणुः । आनङ्क आनङ्कतुः आनङ्कुः इत्यादीन्येव, - नात्राम् । पतण् गतौ वा । वाशब्दो णिजदन्तत्वयोर्युगपद्विकल्पार्थः । वातण गतिसुखसेवनयोः । कथण् वाक्यप्रबन्धे । कथयति । अचकथत् । छेदण द्वैधीकरणे । गदणू गर्ने । अन्धणू दृष्टयुपघाते । स्तनण गर्ने । ध्वनण् शब्दे । स्तेन चौर्ये । उन परिहाणे । ऊनयति । औनिनत् औनिनताम् औनिनन् । मा भवान् ऊनिनत् । रूपणू रूपक्रियायाम् । भामण क्रोधे । गोमण उपलेपने । साम सान्त्वने । स्तोमण छात्रायाम् । व्यय वित्तसमुत्सर्गे । सूत्रण विमोचने । सूत्रयति । असुसूत्रत् । मूत्रण प्रस्रवणे । मूत्रयति । अमुमूत्रत् । पार तीरण् कर्मसमाप्तौ । पारयति । पारयाञ्चकार । अपपारत् । तीरयति । तीरयाञ्चकार । अतितीरत् । चित्र चित्रक्रियाकदाचिदृदृष्टयोः । वरण ईसायाम् । शारण दौर्बल्ये । कुमारण् क्रीडायाम् । कलण् सङ्ख्यानगत्योः । शीलण उपधारणे । बेल कारण उपदेशे । पल्यृलणू लवनपवनयोः । गवेषण मार्गणे ।
1