________________
( १७९) गरिण उद्यमे । गूरयते । अजूगुरत । ललिण ईप्सायाम् । लालयते । अलीललत । दशिण दशने । यक्षिण पूजायाम् । यक्षयते । अययक्षत।
इत्यात्मनेपदं समाप्तम् ॥
अथ अदन्ता धातवः-- • अङ्कण लक्षणे । अङ्कयति । आञ्चिकत् । सुख दुःखण तत्क्रियायाम् ।
अतः । ४।३।८२ । अदन्ताद् धातोविहितेऽशिति प्रत्यये परे धातोरकारस्य लुग् भवति । सुखयति । नन्वत्र अकारलुकि गुणः कथं न भवतीति चेत्, स्थानिवद्भावात् । सुखयेत् । असुखयत् । सुखयाञ्चकार । असुसुखत् समानलोपित्वात् सन्वद्भावदीर्घत्वयोरभावः । अङ्कादीनामदन्तेषु पाठः पूर्वाचार्यानुरोधादेव, णिजभावेऽनेकस्वरत्वेन यङ्प्रत्ययाभावार्थ इत्यन्ये । केचित्तु एवंविधानामदन्तत्वविधानसाम
• देवाल्लोपाभावं मन्वानाः णिति परे वृद्धौ प्वागमे च अङ्कापयति इत्यादीन्युदाहरन्ति । एवं सुखापयति, दुःखापयति, वण्टापयति, कथापयति, अर्थापयते, सूत्रापयते, गर्वापयते इत्यादीन्यपीच्छन्ति। रचण् प्रतियत्ने । रचयति । रचयाञ्चकार । अरचयत् । अररचत् । सूचण पैशून्ये । भाजण पृथक्कर्मणि । सभाजण प्रीतिसेक्नयोः । कूटण दाहे । पट वटण ग्रन्थे । खेटण् भक्षणे । खोटण क्षेपे ।