________________
(१७८ ) पूर्वयोकारस्येत्वमिति अयियवत् । गृणि विज्ञाने । गारयते । वञ्चिा प्रलम्भने । प्रलम्भनं मिथ्याफलाख्यानम् । वञ्चयते । अवञ्चयत । वञ्चयाञ्चके । वञ्चयाम्बभूव । वश्चयामास । वञ्चयिषीष्ट । वञ्चयितासे । वञ्चयिष्यते । अवञ्चयिष्यत । अववञ्चत अववञ्चेताम् अववञ्चन्त । इदित्वादेव णिगन्तादप्यात्मनेपदे सिद्धे 'प्रलम्भे गृधिवश्वेः । इत्यनेनात्मनेपदविधानं णिगन्तादफलवति कर्तर्यपि आत्मनेपदविधानार्थम् । मदिण् तृप्तियागे । मादयते । मादयताम् । मादयाञ्चक्रे । मादयिष्यते । अमीमदत अमीमदेताम् । विदिण चेतनाख्याननिवासेषु । वेदयते । वेदयेत । वेदयाञ्चक्रे । वेदयिष्यते । अवीविदत अवीविदेताम् अवीविदन्त । मनिण् स्तम्भे । स्तम्भो गर्वः । मानयते गर्व करोतीत्यर्थः । मानयाञ्चक्रे । मानयाम्बभूव । मानयामास । अमीमनत । बलि भलिण आभण्डने । आभण्डनं निरूपणम् । बालयते भालयते रूपं निरूपयतीत्यर्थः । भालयाञ्चक्रे । मालयामास । अबीभलत । दिविण परिकूजने । देवयते । देवयताम् । अदेवयत । देवयाञ्चक्रे । अदीदिवत । लक्षिण आलोचने । बक्षयते । अलक्षयत । लक्षयाञ्चक्रे । अललक्षत । कूटिण् अप्रमादे। शठिण श्लाघायाम् । कूणिण संकोचने । तूणिण पूरणे । भ्रणिण आशायाम् । चितिण संवेदने । वस्ति गन्धिण् अर्दने । शमिण
आलोचने । ' अमोऽकम्यमिचमः' इत्यनेन ह्रस्वे प्राप्ते शमोऽ. •दर्शने ' इत्यनेनादर्शने एव णौ परे शमो हृस्वत्वकरणात् शामयते । निशामयते । अशामयत । शामयाञ्चक्रे । अशीशमत ।