SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ( २६ ) इत्यनेन विसर्गे सति जिनः इति सिद्धम् । द्वित्वविवक्षायां जिन औ - जिनौ । बहुत्वविवक्षायां जिन जस् इति स्थिते, जकारो जसीति विशेषणार्थः । जिन असू लुगस्यादेत्यपदे । २ । १ । ११३ । अपदादावकारे एकारे च परेऽकारस्य लुक् स्याद् । इति अकारस्य लुचः प्राप्तौ T अत आः स्यादौ जस्भ्याम्ये । १ । ४ । १ । स्यादौ जसि भ्यामि यकारे च परेऽकारस्याकारः स्यात् । इत्यनेन बाघनादकारस्य आकारे कृते दीघविसर्गों जिना: । द्वितीयैकवचने जिन अम् इति स्थिते — समानादमोऽतः । १ । ४ । ४६ । समानात् परस्यामोऽकारस्य लुक् स्याद् । जिम्, जिनौ । बहुत्वविवक्षायां जिन शस् इति स्थिते ______ शसोता स नः पुंसि । १ । ४ । ४९ । शस्संबन्धिनोऽकारेण सह पूर्वसमानस्यासन्नो दीर्वादेशः स्याद्, तत्संनियोगे च पुंलिङ्गविषये शसः सकारस्य नकारादेशः स्याद् । जिनान् । तृतीयैकवचने जिन टा इति स्थिते टाङसोरिनस्यौ । १ । ४ । ५ । अकारात् पस्योः स्याद्योः टाङसोर्यथासंख्यमितस्यौ स्याताम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy