________________
(१७५)
चकार । अपपक्षत् । लक्षीण दर्शनाङ्कनयोः । लक्षयति । लक्षयाश्चकार । अललक्षत् । ज्ञाण मारणादिनियोजनेषु ।
अतिरीब्लीहीक्नूयिक्ष्माय्याता पुः । ४ । २ । २११ एषामादन्तानां च णौ पुरन्तो भवति ।
मारणतोषणनिशाने ज्ञश्च । ४।२।३०। __ मारणादिष्वर्थेषु वर्तमानस्य जानातेर्धातोणिचि अणिचि च णौ परे ह्रस्वो भवति, भिणम्परे तु वा । मारणे सञ्ज्ञपयति पशून् हिनस्तीत्यर्थः । तोषणे विज्ञपयति गुरून् तोषयतीत्यर्थः । निशाने प्रज्ञपयति शस्त्रम् तीक्ष्णयतीत्यर्थः । अन्यत्र तु आज्ञापयति भृत्यान् आज्ञां करोतीत्यर्थः । ज्ञपयति । अजिज्ञपत् अजिज्ञपताम् अजिज्ञपन् । भूण अवकल्कने । अवकल्कनं मिश्रीकरणम् ।दध्ना ओदनं भावयति। अन्ये त्ववकल्कने नेच्छन्ति तन्मते साधुः समयं भावयति विचारयतीत्यर्थः । भावयेत् । भावयतु । अभावयत् । भावयाञ्चकार । भावयाम्बभूव । भावयामास । भाव्यात् । भावयिता। भावयिष्यति । अभावयिष्यत् अबीभवत् । लिगुण चित्रीकरणे । लिङ्गयति । चर्चण अध्ययने । चर्चयति । अचचर्चत् । अञ्चण विशेषणे । विशेषणमतिशयः अञ्चयति मुचण प्रमोचने । अर्जण प्रतियत्ने । भनण्. विश्राणने। चट स्फुटण भेदे । चाटयति । उच्चाटयति । स्फोटयति । आस्फोटया