________________
( १७६) ञ्चकार। णिचोऽनित्यत्वात् चटति, स्फोटति । घटण संघाते । अर्थान्तरे घटिष् चेष्टायाम् , अयमेवार्थान्तरे घटादौ बोध्य इत्यर्थः ।
घटादेहस्वो दीर्घस्तु वा बिगम्परे । ४ । २।२४ ।
घटादीनां धातूनां णौ परे हस्वो भवति । भिणम्परे तु णौ वा दीर्घः । घटयति । घटयेत् । घटयतु । अबटयत् । घटयाञ्चकार । घटयाम्बभूव । बटयामास । अजीवटत् अजीघटताम् अनीघटन् । हन्त्यर्थाश्च ये धातवोऽन्यत्र पठिता हिंसाास्तेषामपि चुरादौ पाठो बोध्यः । यतण निकारोपस्कारयोः । यातयति शत्रून् चैत्रः । उपस्कारे यातयति दरिद्रः परस्य धनम् । अयीयतत् । निरश्च प्रतिदाने निःपूर्वो यत्धातुश्चुरादौ ज्ञातव्यः, स च प्रतिदानेऽर्थे । निर्यातयति ऋणम् । शब्दण् उपसर्गाद् भाषाविष्कारयोः । शब्दयति । अशशब्दत् । वदण् आस्वादने । स्वादयति । असिष्वन् । मुदण् संसर्गे । मोदयति सक्तून् सर्पिषा संयोजयतीत्यर्थः । जमुण् नाशने । अमण रोगे । चरण असंशये । पूरण आप्यायने । दलण विदारणे। पश पषण बन्धने । पुषण धारणे । घुषण विशब्दने। विशब्दनं विशिष्टशब्दकरणं नानाशब्दनं वा । घोषयति । अजूघुषत्। ऋदित्करणात् अनित्यो णिच् चुरादीनामिति ज्ञापितं तेनाङि अवुषत् अघुषताम् अघुषन् । अर्थान्तरे तु घुष शब्दे घोषति चैत्रः शब्दं करोतीत्यर्थः । आङः परस्तु घुषण क्रन्दार्थे ज्ञेयः, आघोषयति क्रन्दते इत्यर्थः । भूष तसुण अलङ्कारे । भूषयति ।