________________
(१७३)
वटुण् विभाजने । शुठण आलस्ये। शोठयति । अशूशुठत् । गुठुण वेष्टने । लडण उपसेवायाम् । लाडयति । लाड्यात् । अलीलडत् । डस्य लत्बे लालयति । स्फुडण् परिहासे । ओलडुण् उत्क्षेपे। ओलण्डयति ओदिदयमित्यन्ये तन्मते लण्डयति । पीडण गहने । गहनं बाधा । पीडयति । भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणलॅहेठ
लुटलुपलपां नवा । ४ । २ । ३६ । एषां ङपरे णावुपान्त्यस्य हस्वो वा भवति । अपीपिडत्, अपिपीडत् । तडण आघाते । कडुण् खण्डने च । चुडुण् छेदने । मडुण् भूषायाम् । मण्डयति । मण्डयाञ्चकार । अममण्डत् । भडण कल्याणे । भण्डयति । अबभण्डत् । ईडण स्तुतौ । ईडं. यति । ऐडिडत् । चडुण कोपे । चण्डयति अचचण्डत् । चूण तूणण संकोचने । चूणयति । अचूचुणत् । तूणयति । तूण्यात् ।
अतूतुणत् । श्रणणे दाने । श्राणयति । अशिश्रणत्, अशाणत्। चितुण् स्मृत्याम् । चिन्तयति । अचिचिन्तत् .। पुस्त बुस्तण आदरानादरयोः । पुस्तयति। पुस्ताञ्चकार । पुस्त्यात् , अपुपुस्तत् । बुस्तयति । अबुबुस्तत् । मुस्तण संघाते । कृतण संशब्दने । ..... कृतः कीर्तिः । ४ । ४ । १२२।. कृतणः कीर्तिर्भवति। कीर्तयति । अकीर्तयत्। कीर्तयाञ्चकार।
ऋद् ऋवर्णस्य । ४ १२ । ३७ ।