SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ (१७२) द्वयुक्तिभाजः स्वरादेर्धातोद्वितीयोऽश एकस्वरो विर्भवति । इति । किं ' इत्यस्य द्वित्वे प्राप्ते। अयि रः । ४।१।६। स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादी रो द्विर्न भवति, न तु रादनन्तरे यि । आर्किकत् आर्किकताम् आर्किकन् । ङपरे गौ लघ्वक्षराभावात् न सन्वत्कार्य दीर्यश्च । पचुण विस्तारे पञ्चयति। अपञ्चयत् । पञ्च्यात् । पञ्चयिता । पञ्चयिष्यति । अपञ्चयिष्यत् । अपपञ्चत् अपपञ्चताम् अपपश्चन् । म्लेच्छण म्लेच्छने । म्लेच्छयति । म्लेर छ्यात् । अमिम्लेच्छत् अमिम्लेच्छताम् अमिम्लेच्छन् । ऊर्जण् बलप्राणनयोः । प्राणनं जीवनम् । उर्जयति । और्जयत् । ऊर्ध्यात् । ऊर्जयिता । उर्जयिष्यति । औयिष्यत् । और्जिनत् और्जिजताम् और्जिजन् । तुजु पिजुण हिंसाबलदाननिकेतनेषु । तुञ्जयति । पिञ्जयति । अपिपिञ्जत् अपिपिञ्जताम् अपिपिञ्जन् । पूजण पूजायाम् । पूजयति । पूजयाञ्चकार । पूज्यात्। पूजयिता । अपूपुजत् अपूपुजताम् अपूपुजन् । तिजण निशाने । तेजयति । तेजयतु । तेजयामास । तेज्यात् । अतीतिजत् अतीतिजताम् अतीतिजन् । वज व्रजण मार्गणसंस्कारगत्योः । मार्गणो बाणस्तस्य संस्कारे गतौ च । अवीवजत् । अविव्रजत् । रुनण् हिंसायाम् । नटण् अवस्यन्दने । अवस्यन्दनं भ्रंशः । तुट चुट चुटु छुटुण छेदने । कुट्टण् कुत्सने च । पुट मुटण संचू. र्णने। लुण्टण स्तेये । लुण्टयति । अलुण्टत् । स्फुटण परिहासे ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy