________________
(१७१) इति स्थिते द्वित्वे तस्य च ह्रस्वत्वे पपा+इ+अ+त् इति स्थिते : उपान्त्यस्य इस्वे कृते पपर++अ+त् इति जाते
असमानलोपे सन्वल्लघुनि डे।४।१।६३ ।
न विद्यते समानस्य लोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य भवति । सनि परे द्वित्वे पूर्वस्याकारस्य यथा इत्वं भवति तथाऽत्रापीत्यर्थः । अडागमे अपिपर+इ+अ+त् इति जाते ‘लघोर्दीघ' इत्यादिना दीर्घे ‘णेरमिटि' इति णेर्लोपे अपीपरत् अपीपरताम् अपीपरन् । घृण स्रवणे । घारयति । धारयेत् । घारयतु । अघारयत् । घारयाञ्चकार । घारयाम्बभूव । घारयामास । घार्यात् । घारयिष्यति । अनीघरत् अनीघरताम् अनीघरन् । श्वल्क वल्कण भाषणे । श्वल्कयति । अश्वल्कयत्। श्वल्कयाञ्चकार । श्वल्कयाम्बभूव । श्वल्कयामास । श्वल्क्यात् । अश्वल्कयिष्यत् । परस्मिन् लघुधात्वक्षराभावात् न दीर्घः अशवल्कत् । नक्क धक्कण नाशने । नक्कयति । अननक्कत् । धक्कयति । अदधक्कत् । चक्क चुक्कण व्यथने । चक्कयति । अचचक्कत् । चुक्कयति । अचुचुक्कत् । टकुण् बन्धने । टङ्कयति । टङ्कयाञ्चकार । अटटङ्कत् । अर्कण् स्तवने। अर्कयति । आर्कयत् । अर्कयाञ्चकार । अात् । अर्कयिता । अर्कयिष्यति ।
स्वरादेद्वितीयः । ४।१।४।