________________
(१७०) णेरनिटि । ४ । ३ । ८३ । अनिटि अशिति प्रत्यये गेलुंग भवति । चोर्यात् । चोरयिता । चोरयिष्यति । अचोरयिष्यत् । अद्यतन्यां ‘णिश्रिद्रुनुकमः कर्तरि ङः' इति के कृते 'आद्योऽश एकस्वरः' इत्यनेन आद्यस्य एकस्वरवतोऽवयवस्य द्वित्वे चो+चोर्इ+अ+त् इति स्थिते द्वित्वे पूर्वस्य ह्रस्वे
उपान्त्यस्यासमानलोपिशास्वृदितो रे । ४ । २ । ३५ ।
समानलोपिशास्वृदिद्वनस्य धातोरुपान्त्यस्य ङपरे णौ हस्त्रो भवति । इति हूस्वे कृते
ळघो?ऽस्वरादेः । ४ । १ । ६४ । अस्वरादेरसमानलोपे उपरे णौ द्वित्वे पूर्वस्य लघोर्लघुनि धात्वक्षरे परे दी| भवति । अडागमे च णेर्लोपे च अचूचुरत् अचूचुरताम् अचूचुरन् । अचूचुरः अचूचुरतम् अचूचुरत । अचूचुरम् अचूचुराव अचूचुराम । पृण पूरणे । णौ 'नामिनोऽ कलिहलेः ' इति वृद्धौ आरादेशे शवि गुणे च पारयति पारयतः पारयन्ति । पारयेत् । पारयतु । अपारयत् । पारयाञ्चकार । पारयाम्बभूव । पारयामास । पार्यात् । पारयिता । पारयिष्यति । अपारयिष्यत् । अद्यतन्यां दिप्रत्यये के च कृते पार+इ+अ+त्