________________
-.,
-
--
-
-
( १६१) स्कुनीत । स्कुनुयात् , स्कुन्वीत । स्कुनातु, स्कुनीताम् । स्कुनोतु, स्कुनुताम् । अस्कुनात्, अस्कुनीत । अस्कुनोत्, अस्कुनुत । चुस्काव । चुस्कुवे । स्कूयात् । स्कोषीष्ट । स्कोता । अस्कौषीत् । अस्कोष्ट । क्नूगश् शब्दे । क्नूनाति, क्नूनीते । चुक्नाव । चुक्नुवे । क्नविता । क्नविष्यति ।क्नविष्यते । अक्नावीत् । अक्नविष्ट । द्रूगश् हिंसायाम् । द्रूणाति । द्रूणीते । अद्रूणात् । अद्रूणीत । दुद्राव । दुद्रुवे । द्रूयात् । द्रविषीष्ट । द्रवितासि । द्रवितासे । अद्रावीत्। अद्रविष्ट । ग्रहीश् उपादाने । उपादानं स्वीकारः। गृह्णाति । गृह्णीते ‘ग्रहश्च-' इत्यादिना य्वृत् । गृह्णीयात् । गृह्णीत । गृह्णातु ।
व्यञ्जनाच्छ्नाहेरानः । ३।४। ८० ।
: व्यञ्जनात् परस्य श्नायुक्तस्य हेरानो भवति । गृहाण। गृह्णीसात् । गृह्णीताम् । अगृह्णात् । अगृह्णीत । जग्राह । जगृहे जगृहाते जगृहिरे । गृह्यात् ।
गृहोऽपरोक्षायां दीर्घः । ४।४।३४।
ग्रहेर्धातोर्विहित इड् दी| भवति, न तु परोक्षायाम् । ग्रहीषीष्ट । ग्रहीतासि । ग्रहीतासे । ग्रहीष्यति । ग्रहीष्यते । अग्रहीध्यत् । अग्रहीष्यत । 'न श्वि' इत्यादिना वृद्धिनिषेधात् अग्रहीत्
11