________________
( १६२) अग्रहीष्टाम् अग्रहीषुः । अग्रहीष्ट अग्रहीषाताम् अग्रहीषत ।
अथ क्रयाद्यन्तर्गणः प्वादिः।
पादेईस्वः । ४ । २ । १०५ । प्वादेरत्यादौ शिति इस्वो भवति । पूगश् पवने । पवनं शुद्धिः। पुनाति । पुनीते । अपुनात् । अपुनीत । पुपाव । पुपुवे । पूयात् । पविषीष्ट । पवितासि । पवितासे । पविष्यति । पविष्यते । अपावीत् अपाविष्टाम् अपाविषुः । अपविष्ट अपविषाताम् अपविषत। लगश् छेदने । लुनाति । लुनीते । लुनीयात् । लुनीत । लुनातु । लुनीताम् । अलुनात् । अलुनीत । लुलाव । लुमुवे । अलावीत् । अलविष्ट । धूगश् कम्पने । धुनाति । धुनीते । धुनातु । धुनीताम् । अधुनात् । अधुनीत । दुधाव । दुधुवे । धूयात् । धविषीष्ट । धोतासि, धवितासि । धोतासे, धवितासे । धविष्यति । धविष्यते । अधविष्यत् । अधविष्यत । अधावीत् । अधोष्ट, केचित् सुसाहचर्यात् तत्र सूत्रे प्वादेर्ग्रहणादस्य अधविष्ट इतीच्छन्ति । स्तृगशु आच्छादने । स्तृणाति । स्तृणीते । स्तृणीयात् । स्तृणीत । अस्तृणात् । अस्तृणीत । तस्तार तस्तरतुः तस्तरुः । तस्तरिथ । तस्तरे तस्तराते तस्तरिरे । स्तीर्यात् । ' इट् सिजाशिषोरात्मने' इति वा इट् स्तरिषीष्ट, स्तीर्षीष्ट । 'वृतो नवाऽनाशी सिच्परस्मै च' इतीटो वा दीर्धे स्तरीतासि, स्तरितासि । स्तरीतासे, स्तरितासे । स्तरीष्यति, स्तरिष्यति । स्तरिष्यते, स्तरीष्यते । अस्त