SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ सिनातु । सिनीताम् । असिनात् । असिनीत । सिषाय । सिष्ये । सीयात् । सेषीष्ट । सेतासि । सेतासे । सेष्यति । सेष्यते । असेष्यत् । असेष्यत । असैषीत् । प्रींगश् तृप्तिकान्त्योः । प्रीणाति । प्रीणीते । अप्रीणात् । अप्रीणीत् । पिप्राय । पिप्रिये । प्रेता । प्रेष्यति । प्रेष्यते । अप्रैषीत् । अप्रेष्ट । श्रींग्श पाके । श्रीणाति । श्रीणीते । शिश्राय । शिश्रिये । श्रीयात । श्रेषीष्ट । श्रेता । अश्रेषीत् । अश्रेष्ट । मींगश् हिंसायाम् । मीनाति । प्रमीणाति । मीनीते । मीनीयात् । मीनीत । मीनातु । मीनीहि । मीनीताम् । अमीनात् । अमीनीत् । ‘मिग्मीगोऽखलचलि' इति अक्ङिति आत्वे ममौ मिम्यतुः मिम्युः । ममिथ, ममाथ मिम्यथुः मिम्य । मिमाय, मिमय मिम्यिव मिम्यिम । मिम्ये मीयात् । मासीष्ट । मातासि । मातासे । मास्यति । मास्यते । अमास्यत् । अमास्यत । अमासीत् । अमास्त । युंगश् बन्धने । युनाति । युनीते । युनीयात् । युनीत । युनातु । युनीताम् ।। अयुनात् । अयुनीत । युयाव । युयविथ, युयोथ । युयुवे । यूयात् । योषीष्ट । योता । अयौषीत् । अयोष्ट । स्कुंग्श् आप्रवणे । आप्रवणमुद्धरणम् । स्तम्भूस्तम्भूस्कम्भूस्कूम्भूस्कोः श्ना च । ३ । ४ । ७८ । स्तम्भ्वादेः सौत्रधातोः स्कुगश्च कर्तरि विहिते शितिना नुश्च भवति । स्कुनाति, स्कुनीते । स्कुनोति, स्कुनुते । स्कुनीयात्,
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy