________________
( १४९ )
सृजते । लेजे । लजितासे । अलजिष्ट । लज्जते । ललज्जे 1 रज्जिता । अलजिष्ट । ष्वति सङ्के 'नो व्यञ्जनस्य , इत्यादिना नो लुकि स्वजते । स्वजेत । स्वजताम् । अस्वजत ।
स्वञ्जश्च । २ । ३ । ४५ ।
उपसर्गस्याद् नाम्यादेः परस्य स्वञ्जः सकारस्य षकारो भवति, द्वित्वेऽपि, अट्यपि । अभिष्वजते । अभिष्वजेत । अभिष्वजताम् । अभ्यष्वजत ।
स्वञ्जेर्नवा । ४ । ३ । २२ ।
परोक्षा द्विद वा भवति । इति नलुगभावे सस्वते, परिषस्वजे । पक्षे सस्वजे । परिषस्वजे परिषस्वजाते परिषस्वजिरे स्वक्षीष्ट । स्वक्तासे । स्वक्ष्यते । अस्वक्ष्यत । नञा निर्दिष्टस्यानित्यत्वादिटि अस्वष्टि । जुषैति प्रीतिसेवनयोः । जुषते । अनुषे । जुषताम् । अजुषल । जुजुषे । जोषिषीष्ट । जोषिताः ॥ • जोषिष्यते । अजोषिष्यत । अजोषिष्ट अजोषिषाताम् अजोषिषत ।
1
॥ इति तुदादिगणः समाप्तः ॥