SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ( १३२) पीत् । असेष्ट असेषाताम् असेषत । शिंग्टु निशाने । शिनोति । शिनुते । अशिनोत् । अशिनुत । शिशाय । शिश्ये । शीयात् । शेषीष्ट । शेता । शेष्यति । शेष्यते । अशेष्यत् । अशेष्यत । अशैषीत् । अशेष्ट । डुमिंग्टु प्रक्षेपणे । मिनोति । मिनुते । मिनोतु । मिनुताम् । मिग्मीगोऽखलचलि । ४ । २ । ८ । अनयोर्यपि खल अच् अल्वर्जितेऽक्ङिति प्रत्यये च आद भवति । ममौ मिम्यतुः मिम्युः । ममिथ, ममाथ मिम्यथुः मिम्य । ममौ मिम्यिव मिम्यिम । मिम्ये मिम्याते मिम्यिरे। मीयात् । मासीष्ट । माता । मास्यति । मास्यते । अमास्यत् । अमास्यत । अमासीत् । अमास्त । चिंगट चयने । चिनोति । चिनुते । चिनुयात् । चिन्वीत । चिनोतु । चिनुताम् । अचिनोत् । अचिनुत । चे किर्वा । ४ । १ । ३६।। सम्परोक्षयोत्वेि सति पूर्वस्मात् परस्य चेः किर्वा भवति । चिकाय चिक्यतुः चिक्युः । चिक्ये चिक्याते चिक्यिरे । चिचाय चिच्यतुः चिच्युः । चिच्ये चिच्याते चिच्यिरे । चीयात् । चेषीष्ट । चेता । चेष्यति । चेष्यते । अचेष्यत् । अचेष्यत । अचैषीत् । अचेष्ट । धूगट् कम्पने । धूनोति । धूनुते । अधूनोत् । अधूनुत । दुधाव दुधुवतुः दुधुवुः । दुधुवे दुधुवाते दुधुविरे । धूयात् । धोषीष्ट 'धूगौदितः' धविषीष्ट । धोता, धविता। धोष्यति, धविष्यति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy