SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ( १३३ ) वोष्यते, धविष्यते । अधोष्यत्, अधविष्यत् । अधोष्यत, अधविध्यत । अधावीत्, अधौषीत् । अधविष्ट, अधोष्ट । स्तृगूह आच्छादने । स्तृणोति । स्तृणुते । अस्तृणोत्, अस्तृणुत । तस्तार 'संयोगादृदतेः' तस्तरतुः तस्तरुः । तस्तर्थ । तस्तरे तस्तराते तस्तरिरे । ' क्यङाशीर्ये ' इति गुणे स्तर्यात् । संयोगादृतः । ४ । ४ । ३७ । धातोः संयोगात् परो य ऋकारस्तदन्तात् परयोरात्मनेपदविषययोः सिजाशिषोरादिरिड् वा भवति । स्तरिषीष्ट, स्तृषीष्ट । स्तर्तासे । स्तरिष्यति । स्तरिष्यते । अस्तरिष्यत् । अस्तरिष्यत | अस्तार्षीत् अस्ताष्टम् अस्तार्षुः । आत्मनेपदे इट्पक्षे अस्तरिष्ट अस्तरिषाताम् अस्तरिषत । अस्तृत अस्तृषाताम् अस्तृषत । कृंग्ट् हिंसायाम् । कृणोति । कृणुते | अकृणोत् । अकृणुत । चकार । चक्रे । क्रियात् । कृषीष्ट । कर्तासि । कर्तासे । करिष्यति । करिष्यते । अकरिष्यत । अकरिष्यत् । अकार्षीत् । अकृत अकृषाताम् अकृषत । वृगुट् वरणं । वृणोति । वृणुते । वृणुयात् । 'वृण्वीत । अवृगोत् । अवृणुत । ववार वत्रतुः वव्रुः । ववरिथ । व वा वरेि । त्रियात् । 1 इट् सिजाशिपोरात्मने । ४ । ४ । ३६ । वृतः परयोरात्मनेपदविषये सिजाशिषोरादिरिड् वा भवति । वरिषीष्ट, वृषीष्ट । 'वृतो नवा ' इत्यादिना वरितासि, बरीतासि ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy