________________
( १३०)
अमृष्यत् । अमृष्यत । ममर्ष । ममृषे । मृष्यात् । मर्षिषीष्ट । मर्षिता । मर्षिष्यति । मर्षिष्यते । अमर्षिष्यत् । अमर्षिष्यत । अमपीत् । अमर्षिष्ट । णहीच बन्धने । नह्यति । नह्यते। नह्येत् । न त । नह्यतु । नह्यताम् । अनह्यत् । अनह्यत । ननाह नेहतुः नेहुः । नेहे नेहाते नेहिरे । नह्यात् । 'नहाहोर्धतौ' नत्सीष्ट । नद्धा । नत्स्यति । नत्स्यते । अनत्स्यत् । अनत्स्यत । अनात्सीत् अनाद्धाम् अनात्सुः । अनद्ध अनत्साताम् अनत्सत । अनद्धाः अनत्साथाम् अनद्ध्वम् । अनत्सि अनत्स्वहि अनत्स्महि । इत्युभयपदं समाप्तम् ।
इति दिवादिगणः परिसमाप्तः ।
अथ खादिगणः।
टानुबन्धाः स्वादयः पुंगटु अभिषवे
स्वादेः श्रुः । ३ । ४ । ७५ । . स्वादेः कर्तरि विहिते शिति नुर्भवति । 'उश्नोः' इति गुणे सुनोति सुनुतः सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि ।
वम्यविति वा । ४।२। ८७ । असंयोगात् परो य उस्तदन्तस्य प्रत्ययस्य लुग्वा भवति