________________
(२९) रः कखपफयोकपौ। १।३।५। . पदान्ते रेफस्यक-पौ यथासंख्यं वा स्यातां कख-पफयोः 'परयोः। कर+करोति-करकरोति, पक्षे विसर्गः कः करोति; एवं कर+खनति-क)(खनति, कः खनति; कर+पचति-कx पचति, कः पचति; कर+फलति-क-फलति, कः फलति । कस+साधुः अत्र 'सोरु: ' इत्यनेन रुत्वे क+साधुरिति जाते . . रः पदान्ते विसर्गस्तयोः। १ । ३ । ५३ ।
पदान्ते वर्तमानस्य रेफस्य विसर्गः स्याद्, विरामेऽवोधे च परे । कः साधुः । वाचस्पत्यादयः संज्ञाशब्दाः निपातनात् सिद्धा भवन्ति वाचस्पतिः, बृहस्पतिः दिवस्करः, तत् शब्दस्य करे परे चौरार्थे वाच्ये तस्करः इत्यादयः।।
अह्नः । २।१।७४। ___ अहन्शब्दस्य पदान्ते रुरित्ययमादेशः स्याद् । स च परे सर्वत्रासन्-पूर्वत्र च स्यादिविधौ। दीर्धाणि अहानि यस्मिन् स 'दीर्घाहो निदावः ।
रो लुप्यरि।२।१ । ७५ । अहन् शब्दस्य लुपि सत्यामरेफे परे पदान्ते र इत्यन्तादेशः स्याद् । अहर्गणः, अहरधीते । अरीति किम् । अहोरूपम्, अहोरात्रम्, अहोरथन्तरमित्यादौ रेफादेशाभावाद् रुत्वे उत्वे च कृते "अवर्ग. ' इत्यादिनौत्वे कृते रूपाणि सिध्यन्ति ।