________________
(१०) अथ विसर्गसन्धिः
चटते सद्वितीये । १ । ३ । ७। पदान्ते वर्तमानस्य रकारस्य सद्वितीयेषु चटतेषु परेषु यथासंख्यं शषसा इत्येते आदेशाः स्युः । कर+चरति-कश्चरति, कर+टीकते-कष्टीकते, कर तरति-कस्तरति । .
। शिव्यघोषात् । १।३ । ५५ । - अघोषात् परे शिटि परे पदान्ते वर्तमानस्य रेफस्य विसर्ग एव भवति । कर+त्सरुक:-कात्सरुकः, वासर+सौमम्-वासः सोमम् , सर्पिर+प्साति-सर्पिःप्साति । .
व्यत्यये लुग् वा । १।३। ५६ । . शिटः परोऽघोष इति गत्ययस्तस्मिन् परे पदान्ते वर्तमानस्य रेफस्य लुग् वा स्याद् । कर+ष्ठीवति-कष्ठीवति, पक्षे कष्टठीवति, कः ष्ठीवति ।
शषसे शपसं वा।१।३।६। _ पदान्ते वर्तमानस्य रेफस्य राषसेषु परेषु यथासंख्यं शषसा या स्युः । कर+शेते-कश्शेते, कःशेते; कर+वण्ड:-कष्षण्डः, कः पष्ट कर+साधुः-कस्साधुः, कः साधुः पक्षे ' र: पदान्ते विसर्गस्तयोः । इत्यनेन विसर्गः।