SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ (१२५) अस्निह्यत् । सिष्णेह । स्निह्यात् । स्नेहिता, स्नेग्धा, स्नेढा । स्नेहिध्यति, स्नेक्ष्यति । अस्नेहिष्यत् , अस्नेक्ष्यत् । अस्निहत । इति पुषादिः परिसमाप्तः। · षूडौच् प्राणिप्रसवे । सूयते सूयेते सूयन्ते । सूयसे सूयेथे सूयध्वे । सूये सूयावहे सूयामहे । सूयेत सूयेयाताम् सूयेरन् । सुयताम् सूयेताम् सूयन्ताम् । सूयस्व । असूयत । सुषुवे सुषुवाते सुषुविरे । सविषीष्ट, सोषीष्ट । सविता, सोता । सविष्यते, सोष्यते । असविष्यत, असोष्यत । असविष्ट, असोष्ट । दूच् परितापे । दूयते । दूयेत । दूयताम् । अदूयत । दुदुवे । दविता । दविष्यते । अदविष्यत । अदविष्ट । दींच् क्षये। दीयते। दीयेत। दीयताम् । अदीयत । दीय दीङः क्ङिति स्वरे । ४।३।९३ । दीड: क्ङित्यशिति स्वरे दीय् भवति । दिदीये दिदीयाते, दिदीयिरे। ___यबक्ङिति । ४।२।७। दीडो यपि चाङिति विषये आद् भवति । दासीष्ट । दाता । दास्यते । अदास्यत । अदास्त अदासाताम् अदासत । धींच् अनादरे धीयते । धीयेत । धीयताम् । अधीयत । दिध्ये। धेषीष्ट । धेता । धेष्यते । अधेष्यत । अधेष्ट अधेषाताम् अधे--
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy