SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ( ११४) वेवेष्टु । वेविष्टाम् । अवेट अवेविष्टाम् । विवेष । विविषे। विष्यात् । विक्षीष्ट । वेष्टा । वेक्ष्यति । वेक्ष्यते । अवेक्ष्यत् । अवेक्ष्यत । लदित्त्वादङि अविषत् अविषताम् अविषन् । सकि अविक्षत अविक्षाताम् अविक्षन्त । अविक्षथाः अविक्षाथाम् अविक्षध्वम् । अविक्षि अविक्षावहि अविक्षामहि । इत्युभयपदं समाप्तम् । इति हादिगणः समाप्तः। अथ दिवादिगणः। anuman चानुबन्धा दिवादयः । दिबूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु । दिवादेः श्यः । ३।४।७२। दिवादिभ्यः कर्तरि विहित शिति परे श्यः प्रत्ययो भवति । " भ्वादेर्नामिन:-' इति दीव्यति दीव्यतः दीन्यन्ति । दीव्यसि दीव्यथः दीव्यथ । दीव्यामि दीव्यावः दीव्यामः । दीव्येत् दीव्येताम् दीव्येयुः। दीव्येः । दीन्यतु, दीव्यतात् दीव्यताम् दीव्यन्तु । दीव्य । अदीव्यत् अदीव्यताम् अदीव्यन् । अदीव्यः अदीव्यतम् अदीव्यत । अदीच्यम् अदीव्याव अदीव्याम । दिदेव । दीव्यात् । देविता ।देविष्यति। अदेविष्यत् । अदेवीत् अदेविष्टाम् अदेविषुः । लप अपच जरसि।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy