SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ (१०१) अनिङ्क्त । शिजुकि अव्यक्ते शब्दे । शिङ्क्ते शिञ्जाते शिञ्जते । शिञ्जीत । शिङ्क्ताम् । अशिङ्क्त । शिशिळे । शिञ्जिषीष्ट । शिञ्जिता । शिञ्जिष्यते । अशिञ्जिष्यत । अशिञ्जिष्ट अशिञ्जिषाताम् अशिञ्जिषत । ईडिक्स्तु तौ । ईट्टे ईडाते ईडते । ईशीड सेध्वेस्वध्वमोः। ४ । ४ । ८७ । आभ्यां वर्तमानासेध्वयोः पञ्चमीस्वध्वमोश्चादिरिड् भवति । ईडिषे ईडाथे ईडिध्वे । ईडे ईडिवहे ईडिमहे । ईडीत ईडीयाताम् ईडीरन् । ईट्टाम् ईडाताम् ईडताम् । ईडिष्क ईडाथाम् ईडिध्वम् । ईडे ईडावहै ईडामहै । ऐट्ट ऐडाताम् ऐडत । ऐट्ठाः ऐडाथाम् ऐड्ढ्वम् । ऐडि ऐड्वहि ऐड्महि । ईडाञ्चक्रे, ईडाम्बभूव, ईडामास । ईडिषीष्ट । ईडिता । ईडिष्यते । ऐडिष्यत । ऐडिष्ट ऐडिषाताम् ऐडिषत। ईरिक् गतिकम्पनयोः। ईर्ते ईराते ईरते । ईराञ्चक्रे,ईराम्बभूव, ईरामास । ऐरिष्ट । ईशिक् ऐश्वर्ये । ईष्टे ईशाते ईशते।ईशिषे ईशाथे ईशिध्वे । ईशीत । ईष्टाम् ईशाताम् ईशताम् । ईशिष्व ईशाथाम् ईशिध्वम् । ऐष्ट ऐशाताम् ऐशत । ईशाञ्चक्रे । ईशाम्बभूव । ईशामास । ऐशिष्ट । वसिक् आच्छादने । वस्ते । वसीत । वस्ताम् । अवस्त । ववसे । वसिषीष्ट । वसिता। वसिष्यते । अवसिष्यत । अवसिष्ट । आङः शासूकि इच्छायाम् । प्रायेणायमापूर्वः । आशास्ते आशासीत । आशास्ताम् । आशास्त । आशशासे । आशासिषीष्ट । आशासिता । आशासिष्यते ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy