________________
(१८)
अघोषे परे शिड्वर्जस्य धुटः प्रथमः स्याद् । अनेन प्रथमछकारस्य चत्वे कृते तवच्छत्रमिति सिद्धम् , एवं इच्छति गच्छती स्यादयो ज्ञेयाः।
अनाङ्माको दीर्घाद् वा च्छः । १ । ३ । २८ ।
आङमावर्जदीर्घात् परस्य छकारस्य द्वे रूपे वा स्याताम् । कन्या+छत्रम्-कन्याच्छत्रम्, पक्षे एवम् । अनाङमाङिति किम् । आच्छाया, माच्छिदत् इत्यादौ नित्यमेव ।
तौ मुमो व्यअने स्वौ । १ । ३ । १४ । . मोर्मु इत्यागमस्य मकारस्य पदान्तस्थस्य च मकारस्य व्यब्जने परे परव्यञ्जनस्यैव बसंज्ञावनुस्वारानुनासिको क्रमेण स्याताम् । चक्रम्यते, चक्रम्यते; त्वंकरोषि, त्वङ् करोषि, स्वं पचसि, त्वम्पचसि; संयन्ता, सय्यन्ता; संवत्सरः, सवत्सरः; त्वं लासि, स्वल्लाँसि । .. * 'म्नां धुवर्गेऽन्त्योऽपदान्ते । १।३ । ३९। ।
अपदान्ते वर्तमानानां मकारनकाराणां धुट्संज्ञके वर्गे परे तस्यैव स्वोऽन्त्यः स्याद् । गम्+ता-गन्ता; शन्+किता-शंकिता।
शिड्हेऽनुस्वारः। १ । ३ । ४ । अपदान्तस्थानां मकारनकाराणां शिटि हे च परेऽनुस्वारः स्याद् कम्+स:-कंसः; यशान्+सि-यशांसि ।।