SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ (९६) वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा भवन्ति । वेद विदतुः विदुः । वेत्थ विदथुः विद । वेद विद्व विद्म । पक्षे पूर्ववत् । विद्यात् विद्याताम् विद्युः । पञ्चम्याः कम् । ३।४ । १२ । वेत्तेः परस्याः पञ्चम्याः किदाम् वा भवति, आमन्ताच्च परः पञ्चम्यन्तः कृगनुप्रयुज्यते । विदाकरोतु, विदाङ्कुरुतात् विदाङ्कुरुताम् विदाकुर्वन्तु । विदाङ्कुरु, विदाकुरुतात् विदाङ्कुरुतम् , विदाकुरुत । विदाङ्करवाणि विदाकरवाव विदाङ्करवाम । वेत्तु, वित्तात् वित्ताम् विदन्तु । विद्धि, वित्तात् वित्तम् वित्त । वेदानि वेदाव वेदाम । अवेत् अवित्ताम् अविदुः । अवेः, अवेत् अवित्तम् अवित्त । अवेदम् अविद्व अविद्म । वेत्तेः कित् । ३ । ४ । ५१। वेत्तेः परस्याः परोक्षाया आम् किद् वा भवति । आमन्ताच्च कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते । विदाञ्चकार, विद्वाम्बभूव, विदामास । विवेद विविदतुः विविदुः । विद्यात् । वेदिता । वेदिप्यति । अवेदिष्यत् । अवेदीत् । हनंक हिंसागत्योः । हन्ति यमिरमिनमिगमिहनिमनिवनतितनादेधुटि डिति ।४।२। ५५। एषां तनादीनां च धुडादौ क्ङिति लुग् भवति । हतः । 'गमहन'–इत्यादिना अकारलोपे ' हनो नो नः' इति नन्ति ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy