SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ( ९५ ) अवचन् । अवग् अवक्तम् अवक्त । अवचम् अवच्व अवध्मे । परोक्षायां तु उवाच ऊचतुः ऊचुः । उवचिथ, उवक्थ ऊचथुः ऊच । उवाच, उवच ऊचिव ऊचिम । उच्यात् । वक्ता । वक्ष्यति । अवक्ष्यत् । अवोचत् अवोचताम् अवोचन् । अवोचः अवोचतम् अवोचत । अवोचम् अवोचाव अवोचाम । मृजौक् शुद्धौ । मृजोऽस्य वृद्धिः । ४ । ३ । ४२ । मृजेर्गुणे सत्यकारस्य वृद्धिर्भवति । मार्ष्टि मृष्टः । ऋतः स्वरे वा । ४ । ३ । ४३ । मृजेः ऋकारस्य स्वरादौ प्रत्यये परे वृद्धिर्वा भवति । मार्जन्ति, मृजन्ति । माक्षि मृष्ठः मृष्ठ । माज्मि मृज्वः मृज्मः । मृज्यात् । मार्छु, मृष्टात् मृष्टाम् मार्जन्तु, मृजन्तु । मृड्ढि मृष्टम् मृष्ट । मार्जानि मार्जाव मार्जाम । अमार्ट अमृष्टाम् अमार्जन्, अमृजन् । अमार्ट् अमृष्टम् अमृष्ट । अमार्जम् अमृज्व अमृज्म । ममा ममृजतुः, ममार्जतुः ममृजुः, ममार्जुः । ममार्जिथ ममृजथः, ममार्जथुः ममृज । ममार्ज, ममर्ज ममृजिव, ममार्जिव ममृजिम, ममार्जिम । मृज्यात् । मार्जिता, माष्टर्श । मार्जिष्यति, मार्क्ष्यति । अमार्जिष्यत् । अमार्क्ष्यत् । अमार्जीत् अमार्जिष्टाम् अमार्जिषुः । अमार्क्षीत् अमाष्टम् अमाक्षुः । विदक् ज्ञाने । वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । । तिवां णवः परस्मै । ४ । २ । ११७ ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy