SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ (९४) ...... व्यञ्जनान्ताद् धातोः परस्य सेढुंग भवति, यथासम्भवं सदधां वा रुश्च । अचकाः, अचकात् अचकास्तम् अचकास्त । अचकासम् अचकास्व अचकास्म । चकासाञ्चकार, चकासाम्बभूव, चकासामास । चकास्यात् । चकासिता । चकासिष्यति । अचकासिष्यत् । अचकासीत् । शासूक् अनुशिष्टौ । शास्ति इसास: शासोऽव्यअने । ४।४ । ११८ । शास्तेः आसः अङि क्ङिति व्यञ्जनादौ च परे इस् भवति । शिष्टः शासति । शास्सि शिष्ठः शिष्ठ । शास्मि शिष्वः शिष्मः । शिष्यात् । शास्तु, शिष्टात् शिष्टाम् शासतु । शासस्हनः शाध्येधिजहि । ४ । २ । ८४ । शास्-अस्-हनांह्यन्तानां यथासङ्ख्यं शाधि एधि जहि इत्येते भवन्ति । शाधि शिष्टम् शिष्ट । शासानि शासाव शासाम । दे कि सो दत्त्वे अशात् अशिष्टाम् अशासुः । अशात् , अशाः अशिष्टम् अशिष्ट । अशांसम् अशिष्व अशिष्म। शशास शशासतुः शशासुः। शशासिथ शशासथुः शशास । शशास शशासिव शशासिम । शिष्यात् । शासिता । शासिष्यति । अशासिष्यत् । ' शास्त्यसूवक्तिख्यातेरङ्' इति अशिषत् अशिषताम् अशिषन् । वचंक् परिभाषणे । वक्ति वक्तः वचन्ति । वक्षि वक्थः वक्थ । वच्मि वच्चः वच्मः । वच्यात् । वक्तु, वक्तात् वक्ताम् वचन्तु । वग्धि, वक्तात् वक्तम् वक्त । वचानि वचाव वचाम । अवक् अवक्ताम्
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy